भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 461 to 470 of 841 verses
समयस्स वर्तत इहैष मां समनन्दयत् सुमुखि ! गौतमार्पितः।

अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः॥ १२९॥

संपर्को यथा—(उराच. २.२७)

पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।

बहोर्दृष्टं कालादपरिमिव मन्ये वनमिदं निवेशश्शैलानां तदिदमिति बुद्धिं द्रढयति॥ १३०॥

अनुगमो यथा—(शाकु. ६.९)

इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता गृहे तिष्ठेत्युच्‍चैर्वदति गुरुशिष्ये गुरुसमे।

पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत् सविषमिव शल्यं दहति माम्॥ १३१॥

(३०. क्रोधः)

मनःप्रतिकूलेषु तैक्ष्ण्यप्रतिबन्धः(प्रबोधः) क्रोधः। तस्य

Showing 461 to 470 of 841 verses