अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणास्रद्रवम् अविरतोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ १२३॥
प्रकर्षो यथा—(मामा. ५.१०)
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि— श्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया॥ १२४॥
संपर्को यथा—(महानाटकं ३.२४)
हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे।
वत्स राम ! गतोऽसीति सन्तापादनुमीयसे॥ १२५॥
व्रीहिः स्तम्बकरिः प्रभूतपयसः प्रत्यागता धेनवः प्रत्युज्जीवितमिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।