देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै— र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाऽश्रुपूर्णे दृशौ तामाशां पथिकस्तथाऽपि किमपि ध्यायन् मुहुर्वीक्षते॥ ११७॥
अनुबन्धो यथा—(कुसं. ६.९५)
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ ११८॥
प्रकर्षो यथा—(मामा. ९.४६)
प्रयान्तीव प्राणाः सुतनु ! हृदयं ध्वंसत इव जवलन्तीवाङ्गानि प्रसरति समन्तादिव तमः।
त्वराप्रस्तावोऽयं न खलु परिहासस्य विषय— स्तदक्ष्णोरानन्दं वितर मयि मा भूरकरुणा॥ ११९॥