इयं पुनश्चित्रशिखण्डिमण्डली क्व पण्यनार्यः? क्व च नाम तापसाः?॥ १२७॥
तत्र स्वकीया परकीया च उत्तमा, मध्यमा, कनिष्ठा, ऊढा, अनूढा, धीरा, अधीरा, मुग्धा, मध्या, प्रगल्भा च।
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदे/वेशं विनिवेशितेन।
सा निर्मिता विश्वसृजा प्रयत्नादेकत्र सौन्दर्यदिदृक्षयेव॥ १२८॥
१. 'इति महाराजाधिराजश्रीभोजदेवकृतौ श्रृङ्गारप्रकाशे रत्यालम्बनप्रकाशनो नाम पञ्चदशः प्रकाशः॥ १५॥' इति त्वत्र योजयितुमुचितम्।
मध्यमा यथा—(काव्याद. २.३२५)
न देवकन्यका नापि गन्धर्वकुलसम्भवा।
तथाऽप्येषा मनोभङ्गं विधातुं वेधसोऽप्यलम्॥ १२९॥