भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 719 verses
द्यूताश्रयाः विंशतिः २०

ततो निर्जीवाः (१५)

सजीवाः (५)

शयनोपचारिक्यः षोडश १६

चतस्र उत्तरकला ०४

६४ इति चतुष्षष्टिः।

आस्वेव अवान्तरकलानां शतानि पञ्चाष्टादशोत्तराणि स्वशास्त्रविहितप्रपञ्चात् तानीह न प्रतन्यन्ते, गौरवभयात्। मूलकलास्तु संक्षेपत उदाह्रियन्ते।

(मूलकलाः चतुष्षष्टिः)

तत्र —

६.१. कर्माश्रयास्तावद्— गीतं, वादित्रं, नृत्तं, नाट्यं, चित्रं, पुस्तकर्म, पत्रच्छेद्यं, लिपिज्ञानं, वचनकौशलं, वैचक्षण्यं, माल्यविधिः, गन्धयुक्तिः, आस्वाद्य— विधानं, रञ्जनज्ञानं, रत्‍नपरीक्षा, सीव्यम्, उपकरणक्रिया, आजीवज्ञानं, तिर्यग्योनिचिकित्सितं, मायाकृतं, पाषण्डसमयज्ञानं, क्रीडाकौशलं, संवाहनं, शरीरसंस्कारकौशलमिति। अथ—

Showing 421 to 430 of 719 verses