भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 524 verses
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत॥ १२४॥

९. अधोदृष्टमवलोकितं (नाशा. ८.१०९); यथा—

आकाशयानतटकोटिकृतैकपादा स्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।

कौतूहलात् तव तरङ्गविघट्टितानि पश्‍यन्ति देवि! मनुजाः स्वकलेवराणि॥ १२५॥

(दृष्टयः —३६)

अथ कान्ताद्याः दृष्टयः षट्‍‍त्रिंशत्। तत्र —

हर्षप्रसादजनितात्यर्थं (नाशा. ८.४७) कोपामर्षंसमन्मथा भ्रूविक्षेपकटाक्षा च कान्ता; यथा— (मामा. १.३०)

स्तिमितविकसितानामुल्लसद्‍भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।

प्रतिनयननिपाते किञ्चिदाकुञ्जितानां विविधमहमभूवं पात्रमालोकितानाम्॥ १२६॥

प्रोद‍्वृत्तनिष्टब्धपुटा स्फुरदुद्‍्वृत्ततारकाऽत्यर्थभीता भयानका; यथा—(सेबं. २.४२)

Showing 421 to 430 of 524 verses