नेत्रैः पपुस्तृप्तिमनश्नुवद्भिः नवोदयं नाथमिवौषधीनाम्॥ १२२॥
१. नैषां गन्धोऽपि जोशेरे। कोष्ठकपूर्त्तिरस्मत्कृता।
प्रकृत्या रमणीयोऽपि क्षीयमाणः प्रतिक्षपम्।
दुःखमावहति प्रातः शशीवापाण्डुरच्छविः॥ १२३॥
२०. स्वशक्तिधर्षणेषु क्रोधो यथा—
याञ्चां दैन्यपरिग्रहप्रणयिनीं नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोञ्जलिः।
तत् सर्वं विहितं; तथाऽप्युदधिना नैवोपरोधः कृतः पाणिः संप्रति मे हठात् किमपरं स्प्रष्टुं धनुर्वाञ्छति॥ १२४॥
भृगोर्वंशो जातस्तपसि च किलायं स्थित इति द्विषत्स्वप्यस्माभिश्चिरमिह तितिक्षैव हि कृता।