यदा भूयोभूयस्तृणवदवधूनोत्यनिभृत— स्तदा विप्रेऽप्यस्मिन् नमतु धनुरन्याऽस्ति न गतिः॥ १२५॥
२१. महादुःखेषु शोको यथा—(उराच. ३.१)
अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ १२६॥
दह्यमानेन मनसा दैवाद् वत्सां विहाय सः।
लोकोत्तरेण धैर्येण प्रजापुण्यैश्च जीवति॥ १२७॥
२२. दुःखाद्यतिशययोगे अश्रूद्गमो यथा—(उराच. ६.२९)
बाष्पवर्षेण वो नीतं जगन्मङ्गलमाननम्।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम्॥ १२८॥