मन्थित्वा दूरचारश्रमशिथिलतनोश्चापमालम्ब्य मूर्ध— न्यूर्ध्वं यस्य स्थितस्य द्विरदमदजलासारसौरभ्यगर्भाः।
खड्गक्षुण्णावनीभृद्गलविगलदसृक्छीकरालीकरालाः कुर्वन्तो गात्रमैत्रीं समरजमरुजन् घर्मनीरं समीराः॥ १३२॥
स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे॥ १३३॥
२५. महाप्रहारादिषु मूर्च्छागमः; यथा—(रघु. ३.६१)
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः।
मुहूर्तमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः॥ १३४॥
निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः।