तस्य सन्धास्थ यदि वा रामो वा यदि वा प्रियः।
तत् प्रसीदतु माता नः पूर्णकामाऽस्तु मध्यमा॥ १३८॥
५. ईर्ष्यानुत्पत्तिर्यथा—(मवीच. १.३१)
साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते।
किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः॥ १३९॥
६. उग्रतानुत्पत्तिर्यथा—(किराता. १४.११)
यदि प्रमाणीकृतमार्यचेष्टितं किमित्यदोषेण तिरस्कृता वयम्।
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते॥ १४०॥
७. जुगुप्सानुत्पत्तिर्यथा—
अकार्यं च समस्तैस्तैरुपन्यस्तमिदं तथा।