११. भयानुत्पत्तिर्यथा—(रघु. २.४)
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः॥ १४५॥
१२. त्रासानुत्पत्तिर्यथा—
यस्येन्द्रेणोद्यते वज्रे निद्रालोक्ये वशे स्थिते।
लेभेऽवकाशं हृदये न सन्त्रासो न विस्मयः॥ १४६॥
१३.कम्पानुत्पत्तिर्यथा—(किराता. १५.४४)
विलङ्घ्य पत्रिणां पङ्क्तीर्भिन्नः शिवशिलीमुखैः।
ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः॥ १४७॥
१४. स्तम्भानुत्पत्तिर्यथा—(रघु. २.४२)