कनिष्ठस्य यथा—(माघ. १५.१)
अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्॥ १३५॥
२९. मध्यमस्योग्रता यथा—(मवीच. ३.१६)
एकस्य राघवशिशोः कृतचापलस्य कृत्वा शिरो मयि वनाय पुनः प्रयाते।
स्वस्थाश्चिराय रघवो जनकाश्च सन्तु मा भूत् पुनर्बत कथञ्चिदतिप्रसङ्गः॥ १३६॥
कनिष्ठस्य यथा—(बारा. १.६१)
कुर्वन् मौर्वी—निवेश—क्रमनमदटनिष्ठ्यूत—टङ्कार—टङ्कं शम्भोः कोदण्डदण्डं डमरितभुवनं भूर्भुवस्स्वस्त्रयोऽपि।
यस्तामेनां वरीता रसयति तदसृक् चन्द्रहासो ममासिः कण्ठास्थि—ग्रन्थि—शुक्लीकरण—भव—रणत्कारवाचालधारः॥ १३७॥
३०. मध्यमस्य जुगुप्सा यथा—(बारा. २.३७)