भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 471 to 480 of 638 verses
अंसस्रंसिगजेन्द्रकृत्तिवसनं सन्नद्धमेघप्रभं प्रभ्रष्टप्रणयोपनीतशशभृल्लेखावतंसं च तत्।

लोलल्लोहितलोचनाम्बुपिहितत्वद्‍्वक्त्रनिर्वर्णनं वन्देऽर्धासनसंस्थितं तव मधुक्षीबं महाभैरवम्॥ १२८॥

कनिष्ठस्य यथा—

आघूर्णद्‍्वपुषः स्खलन्मृदुगिर; किञ्चिल्लसद्‍वाससो रेवत्यंसनिषण्णनिस्सहभुजस्याताम्रनेत्रद्युतेः।

श्वासामोदमदान्धषट्‍्पदकुलव्यालुप्‍तकण्ठस्त्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः॥ १२९॥

२६. मध्यमस्यामर्षो यथा—(उराच. ४.३)

अपत्ये यत् तावद् दुरितमभवत् तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता।

पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन् मर्माणि क्रकच इव मन्युर्विरमति॥ १३०॥

कनिष्ठस्य यथा—(बारा. ९.४३)

लङ्काधीशस्य मायाचयचतुरमतेर्मैथिलीनाथचाप— व्यापारोद्‍वान्तबाणव्रणनधृतरुषः स्वां प्रतिज्ञां विवक्षोः।

Showing 471 to 480 of 638 verses