अलमलममुना ते साहसेनातिमात्रं चरितमयि! विमुञ्च त्वं लतापाशमेनम्।
चलितमिव निरोद्धुं जीविते जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि॥ १३०॥
जुज्जइ सव्वं सिरिपुत्तिसेण! जह भणिअं तह वि कंतं।
एसा रमणीआ णअणचंचरी तं च बोल्लेइ॥ १३१॥
{युज्यते सर्वं श्रीपुत्ति/बुद्धिसेन! यथा भणितं तथाऽपि कान्तम्।
एषा रमणीया नयनचञ्चरी तदेव कथयति॥}
मध्यमस्य यथा—(गास. ३. ६१)
घरिणिघणत्थणपेल्लणसुहेल्लिपडिअस्स होंतपहिअस्स।
अवसउणंगारअवारविठ्ठिदिअहा सुहावेंति॥ १३२॥