{गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखापयन्ति॥}
३७. उत्तमस्य भयं यथा—(मामा. ५.२०)
१. अंशमिमं जोशेरो नास्पृशत्। कोष्ठकांशपूर्त्तिस्त्वस्मत्कृता। तत्सर्वं खण्डितमिति रा.
नादस्तावद् विकलकुररीकूजितस्निग्धतार— श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति।
अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं देहस्तम्भः स्खलयति गतिं, कः प्रकारः? किमेतत्?॥ १३३॥
मध्यमस्य यथा—(रघु. १९.२३)
क्लृप्ततुष्पशयनान् लतागृहानेत्य दूतिगृह/कृतमार्गदर्शनः।
अन्वभूत् परिजनाङ्गनारतं सोपरोध/सोऽवरोधभयजातवेपथुः॥ १३४॥
३८. उत्तमस्य त्रासो यथा—(पृ. १०४३)