ग्रीवागर्भप्रणालीसरणिसमुदितैकैकवर्णक्रमेण च्छिन्नोद्भिन्नैर्मुखाब्जैः कथमपि हि गिरामेति पङ्क्तिः समाप्तिम्॥ १३१॥
२७. मध्यमस्यासूया यथा—(रघु. ९.६४)
निर्घातोग्रैः कुञ्जलीनान् जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान्।
नूनं तेषामभ्यसूयापरोऽभूद् वीर्योदग्रे राजशब्दे मृगाणाम्॥ १३२॥
कनिष्ठस्य यथा—(मवीच. २.२९)
यत् क्षत्रियेष्वपि पुनः स्थितमाधिपत्यं तैरेव सम्प्रति धृतानि पुनर्धनूंषि।
उन्माद्यतां भुजबलेन मयाऽपि तेषा— मुच्छृङ्खलानि चरितानि पुनः श्रुतानि॥ १३३॥
२८. मध्यमस्येर्ष्या यथा—(रघु. ३.४८)
यदात्थ राजन्यकुमार! तत् तथा यशस्तु रक्ष्यं परतो यशोधनैः।
जगत्प्रकाशं तदशेषमिज्यया भवद््गुरुं लङ्घयितुं ममोद्यतः॥ १३४॥