परनिन्दां यथा कर्तुं वयमेतेऽद्य शिक्षिताः॥ १४१॥
८. विस्मयानुत्पत्तिर्यथा—(किराता. ६.२८)
महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः।
न जगाम विस्मयवशं, वशिनां न हि हन्ति धैर्यमनुभावगुणः॥ १४२॥
९. चपलतानुत्पत्तिर्यथा—(शाकु. १.२५)
अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः॥ १४३॥
१०. आलस्यानुत्पत्तिर्यथा—(रघु. २.६)
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत्॥ १४४॥