प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः।
जडीकृतस्त्र्यम्बकवीक्षितेन वज्रं मुमुक्षन्निव वज्रपाणिः॥ १४८॥
१५. शोकानुत्पत्तिर्यथा—(मवीच. ५.७)
तस्य विद्यातपोवृद्धसंयोगः स्वा च धीरता।
न्याये रक्षाधिकारश्च दौर्मनस्यं व्यपोहति॥ १४९॥
१६. उन्मादानुत्पत्तिर्यथा—
शब्दं च माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः।
मनो यदेषां सुखदुःखसम्प्लवे प्रयाति नोन्मादविषादवश्यताम्॥ १५०॥
१७. विषादानुत्पत्तिर्यथा—
यदि दहत्यनलोऽत्र किमद्भुतं? यदि च गौरवमद्रिषु किं ततः?।