अभ्यासादनुगच्छति प्रियतमेत्याश्वासनप्रेरिता शून्यं मार्गमवेत्य/क्ष्य खेदविवशा दुःखं निवृत्तां ततः।
दृष्टिः संप्रति बाष्पपूरपतनैर्जिह्मीभवत्तारका सक्ता/शक्ता मे न पुरो निरीक्षितुमियं वत्स! क्षणं स्थीयताम्॥ १४६॥
(स्फुरदाशिलष्ट—)पक्ष्माग्र/र्धमुकुलोर्ध्वपुटाञ्चिता, सुखोन्मीलिततारा मुकुला (नाशा.८.७२); यथा—(कुसं. ८.६३)
अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ १४७॥
१. तारकाणि जोशेरः, तारकाणि (निवर्त्तितानि)—राघवः।
आनिकुञ्चितपक्ष्माग्रपुटतारा निकुञ्चिता (नाशा. ८.७९)
ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेतत् प्रेमोद्भेदस्तिमितचलनं किञ्चिदाकुञ्चितं च।
अन्तर्मोदानुभवमसृणस्त्रस्तनिष्कम्पपक्ष्म व्यक्तं शंसत्यचिरमनयोर्दृष्टिमाकेकराक्षम्॥ १४८॥