ततो दशास्यः स्मरविह्वलात्मा चारप्रकाशीकृतशत्रुशक्तिः।
विमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्॥ १५४॥
२१. पाषाण्डसमयज्ञानं यथा—(मामा. ५.१)
षडधिक—दशनाडीचक्रमध्य—स्थिता—त्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः।
अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः॥ १५५॥
२२. क्रीडाकौशलं यथा—(अमरु. १९)
एकत्रासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा— देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः।
तिर्यग्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा— मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥ १५६॥
कदलतलनिषण्णं वर्त्म — विश्रान्तिहेतो— र्व्रजति जनकपुत्रीत्याशया (पर्य्ययेण)१।