जाणइ जाणावेउं अणुणअ—विद्दविअ—माणपरिसेसं।
पइरिक्कम्मि वि विणआवलंबणं स च्चिअ कुणंती॥ १५०॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
परिक्रमेऽपि विनयावलम्बनं सत्यमिव कुर्वती॥)
उत्तमाऽधीरा यथा—(गास. ४.२३)
पिअदंसण—सुहरसमउलिआइँ जइ से ण होंति अच्छीइं।
ता केण कण्णरइअं लक्खिज्जइ कुवलअं तिस्सा॥ १५१॥
(प्रियदर्शनसुखरसमुकुलिते यदि तस्या न भवतो अक्षिणीं।
तदा केन कर्णरचितं लक्ष्यते कुवलयं तस्याः॥)
उत्तमा ऊढा यथा—(रघु. ७.२५)