दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ १५५॥
सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव॥ १५६॥
उत्तमाऽधीराऽनूढा यथा—(मामा. १.२९)
अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममुत्पलक्ष्याः।
तद् भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं किमपि मान्मथ़/?/माविरासीत्॥ १५७॥
उत्तमा मुग्धा यथा—(गास. ७.७८)
मुद्धे अपत्तिअंती, पवाल—अंकुरअ—वण्ण—लोहिअए।
णिद्धोअ—धाउराए कीस सहत्थे पुणो धुअसि॥ १५८॥