उत्तमा ऊढा मुग्धा यथा—(गास. १.१५)
किं किं दे पडिहासइ ? सहीहिं हअ पुच्छिआएँ मुद्धाए।
पढमुग्गअ—दोहलिणीए णवरं दइअं गआ दिट्ठी॥ १६१॥
(किं किं ते प्रतिभासते ? सखीभिरिति पृष्टाया मुग्धायाः।
प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः॥)
जाव ण उट्ठंति वाचिअ/वलिअ—थणआ से दुद्धगंधिअमुहीए।
ताव च्चिअ थुत्थुक्कारिआइ मअणेण अंगाइ॥ १६२॥
(यावन्न उत्तिष्ठतः वलित/पीन—स्तनौ दुग्धगन्धिमुख्याः।
तावदेव १थूथू—कृतानि मदनेन अङ्गानि॥)