ताम्रपर्णीतटे यस्य प्रावर्त्यत वधूजनैः।
द्यूतं मौक्तिकपुञ्जेषु विद्रुमा हारगोपनैः॥ १६७॥
मुष्ट्या मुद्गं क्षिपति भवतः सा समाजेऽपि यूनां स्विद्यत्पाणिः स्पृशाति कमलां मध्यमेत्यङ्गुलिं ते।
त्वां न ब्रूते विदितमपि सा यत् समानाभिघार— द्यूते तन्वी तदलममुना तच्चरित्राशया नः॥ १६८॥
तथा गृहीतस्तन्वङ्ग्या विजयोपार्जितः पणः।
यथा धन्याधरोष्ठेन हरितेति जितं मया॥ १६९॥