भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 551 to 560 of 719 verses
आश्लेषे प्रथमं क्रमेण विजिते हृद्येऽधरस्यार्पणे केलीद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति।

सान्तर्हासनिरुद्धसंभृतरसोद्भेदस्फुरद्गण्डया स्वैरं शारविसारणाय निहितः स्वेदाम्बुगर्भः करः॥ १७०॥

३७. लेखास्मृत्यनुक्रमो यथा—

आरोपयसि मुधा किं नाहमभिज्ञा त्वदङगसङ्गस।

दिव्यं वर्षसहस्त्रं स्थित्वैवं युक्तमभिधातुम्॥ १७१॥

३८. छलव्यामोहनं यथा—

एकेनाभ्यधिकेन याम्यहमथ द्यूते चतुष्केऽश्‍मना (?) ज्ञातेनाभ्यधिकेऽपि वा तव जयो वाह्यां(?) गिरेर्नन्दिनि !।

अन्यूनानधिके पुनः पण इति व्यामोहयन् वाक‍्छलै— र्द्वावावामधिगन्तुमद्रितनयाद्यूते हरः पातु वः॥ १७२॥

३९. ग्रहणा/ग्लहादानं यथा—

कोऽयं भामिनि ! भूषणं, कितव ! ते शोणः कथं ? कुङ‍्कुमात्॰॥ १७३॥

Showing 551 to 560 of 719 verses