त्वत्काङ्ककारविजये तव राम ! लङ्का सीता च ते पुनरियं भवतस्तु दाराः।
मत्काङ्ककारविजये तु ममाधिपत्यं तस्यां च ते पुरि कलत्रजने च तस्मिन्॥ १७४॥१
४१. बुद्धं यथा—(माघ. ८.३२)
मुग्धत्वादविदित—कैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः।
ताः कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन्॥ १७५॥
सखि ! स विजितो वीणाद्यूते कयाऽप्यपरस्त्रिया॰॥ १७६॥