विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः॥ १७९॥
४६. स्वराग(/अनुराग)प्रकाशनं यथा— (गास. ३.५४)
तह सोण्हाए पुलइओ दरवलिआपंगतारअं पहिओ।
जह वारिओ वि घरसामिएण वसिओ उवणिव्वए॥ १८०॥
(तथा स्नुषया प्रलोकितो दरवलितापाङ्गतारकं पथिकः।
यथा वारितोऽपि गृहस्वामिना उषित अलिन्दके॥)
१. रामं रावणो वक्ति—त्वद्विजये सर्वं तव, मद्विजये पुनर्ममे'ति। अत्र त्वत्काङ्ककार—मत्काङ्ककार'—शब्दौ 'तव—ममा'—र्थकौ ज्ञेयौ। २. अत्र द्यूतपरिभाषाः काश्चिदुपनिबद्धाः।
४७. प्रत्यङ्गदानं यथा—(कुसं. ८.१४)
सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत्।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा॥ १८१॥