४८–४९. नखदन्तयोर्विचारौ यथा—
इयमधरविलग्ना कान्तदन्तप्रणाली हऱति हृदयमास्तां किं श्रमेणापरेण ?।
अभिनवनखलेखालङ्कृतं बाहुमूलं कथयसि किमु बाले ! बालबन्धच्छलेन॥ १८२॥
५०. नीवीस्रंसनं यथा—(कुसं. ८.४)
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तद्दुकूलमथ चाभवत् स्वयं दूरमुच्छ््वसितनीविबन्धनम्॥ १८३॥
५१. गुह्यस्पर्शानुलोम्यं यथा—(अमरु. १०१)
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्वे स्थितम्।
एतावत् सखि ! वेद्मि केवलमहं, तस्याङ्गसङ्गे पुनः कोऽसौ ? काऽस्मि ? रतं नु किं ? कथमिति स्वल्पाऽपि मे न स्मृतिः॥ १८४॥
५२. परमार्थकौशलं यथा—(गास. ५.५०)