मामि ! सरिसक्खराणं वि, अत्थ(अत्थि)विसेसो पअप्पिअव्वाणं।
णेहमइआण अण्णो अण्णो उवरोहभणि/मइआणं॥ १८५॥
(मातुलानि ! सदृशाक्षराणामप्यर्थ(अस्ति)विशेषः प्रजल्पितव्यानाम्।
स्नेहमयानामन्योऽन्य उपरोधभणिता/मयानाम्॥}
नान्दीपदानि रतिनाटकविघ्नशान्तावाज्ञाक्षराणि परमाण्यथवा स्मरस्य।
दष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कारशुष्करुदितानि जयन्ति नार्याः॥ १८६॥
५४. समानार्थता यथा—(गास. १.५)
ताव च्चिअ रइसमए मिहुणा/महिला—णं विब्भमा विराअंति।
जाव ण कुवलअदलसच्छअाइ मुउलेंति णअणाइं॥ १८७॥