भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 621 to 630 of 719 verses
५७. क्रुद्धप्रसादनं यथा—(उराच. ३.३७)

अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीसैकते।

आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्‍मलनिभो मुग्धः प्रणामाञ्जलिः॥ १९०॥

५८. सुप्‍तापरित्यागो यथा—(उरा. १.२)

जृम्भाविजृम्भितदृशः प्रथमप्रबुद्धलक्ष्मीकराम्बुरुहलालनलालसस्य।

गात्रापवृत्तिभरखर्वितशेषमव्यादव्याहतं मुरजितः कृतकप्रसुप्‍तम्॥ १९१॥

५९. चरमस्वापविधिर्यथा—(माघ. ११.१३)

अविरतरतखेदायासजातश्रमाणां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः।

अपरिचलितगात्रा कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः॥

६०. गुह्यगूहनं यथा—(माघ. १०.८२)

Showing 621 to 630 of 719 verses