वनभुवि सह पत्या प्रस्थितां वीक्ष्यं सीतां॰॥ १९६॥
६४. पुनर्निरीक्षणं यथा—(शाकु. ६.९)
इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता गृहे तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्दुष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्, तत् सविषमिव शल्यं दहति माम्॥ १९७॥
वयः अवस्था तच्चतुर्धा — सन्धिः, उत्पत्तिः, प्रौढिः अतिप्रौढिश्च। तत्र
णअणाण किर थणारुब्भिहतिउज्जरपहंअवडं।
ताइ असिक्खंतिपतीसावलेअवअणं होंततरुणीओ॥ १९८॥