भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 651 to 660 of 719 verses
(नयनयोः कि ! स्तनोरुहतिरुज्ज्वलप्रालम्बपटम्।

तदशिक्षितपतिसावलेपवचनं भविष्यत्तरुण्यः॥ ?)

यथा वा—(बारा. ३.२१)

समन्तात् साभोगं न तु कुचविभागाञ्चितमुरो नितम्बः स्वां लक्ष्मीमभिलषति नाद्यापि लभते।

दृशोर्लीलामुद्रा स्फुरति च न चातिस्थितिमती तदस्यास्तारुण्यं प्रथममवतीर्णं विजयते॥ १९९॥

२. उत्पत्तिर्यथा—(कुसं. १.३१)

असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।

कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साऽथ वयः प्रपेदे॥ २००॥

यथा वा—(उराच. ६.३५)

तथा किञ्चित् किञ्चित् कृतमिदमहोभिः कतिपयै— र्यतेतद् विस्तारिस्तनमुकुलमासीन्मृगदृशः।

Showing 651 to 660 of 719 verses