प्रेक्षणीयकमिव क्षणमासन् ह्रीतभङ्गुरविलोचनपाताः।
संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ १९३॥
६१. साश्रुपातं रमणस्य वीक्षणं यथा—(किराता. ३.३६)
तुषारलेशाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे॥ १९४॥
धन्याः स्थ याः कथपथ प्रियसंगमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः ! शपामि यदि किञ्चिदपि स्मरामि॥ १९५॥