भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 631 to 640 of 1849 verses
उत्तमाऽधीरोढा प्रगल्भा यथा—(अमरु. ७५)

कथमपि कृतप्रत्यासक्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।

असहनसखीश्रोत्रप्राप्‍तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छवसितं ततः॥ १८३॥

उत्तमाऽधीराऽनूढा प्रगल्भा यथा—(शाकु. ३.७)

क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा।

शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ १८४॥

मध्यमा यथा—

नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध‍याऽधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।

लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः; कियन्ति तरुण ! स्थानानि रक्षिष्यसि ?॥ १८५॥

मध्यमा धीरा यथा—(अमरु. ८१)

Showing 631 to 640 of 1849 verses