प्रातरप्यवनतमुखी इयं सेति प्रियां न श्रद्दध्मः॥)
उत्तमाऽनूढा प्रगल्भा यथा—(कुसं. ७.१९)
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥ १८०॥
उत्तमा धीरोढा प्रगल्भा यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥ १८१॥
उत्तमा धीरोढा प्रगल्भा यथा—(कुसं. ५.८३)
निर्वायतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाक्॥ १८२॥