लावण्यमपसरतीव त्रिवलीसोपानपङ्क्तिभिः॥)
णिहुअं खु णीससिज्जइ रुव्वइ राईसु तं पि णीसद्दं।
वहुआ पइम्मि कआवराहे हिअइच्छिआणिण्हुविज्जंति॥ १७६॥
(निभृतं खलु निःश्वस्यते रुद्यते रात्रिषु तदपि निश्शब्दम्।
पत्यौ कृतापराधे हृदयेप्सितानि ह्नूयन्ते॥)
उत्तमा धीरा प्रगल्भा यथा—(गास. १.४८)
अण्णदइआ/महिलापसंगं दे देव करेसु अम्ह दइअस्स।
पुरिसा एक्कंत—रसा ण हु दोस—गुणे विआणंति॥ १७७॥
(अन्यदयिता/महिला—प्रसङ्गं हे देव ! कुर्वस्माकं दयितस्य।