क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्षामतरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ १७०॥
अनुगमो यथा—(किराता. १८.६)
निपतितेऽधिशिरोधरमायते सममरन्नि(त्नि)युगेऽयुगचक्षुषः।
त्रिचतुरेषु पदेषु किरीटिना लुलितमौलि मदादिव चस्खले॥ १७१॥
निरतिशयप्रयासजन्मा (म)नःशरीरायासाः श्रमः। तस्य
तनुरियं तरलायतलोचने श्वसितकम्पितपीनघनस्तनी।