मनःपीडादिजन्मा शरीरावसादो ग्लानिः। अस्या
प्रकृत्या रमणीयोऽपि क्षीयमाणः प्रतिक्षणम्।
दुःखमावहति प्रातः शशीवापाण्डुरच्छविः॥ १६७॥
किसलयमिव मुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्॥ १६८॥
प्रकर्षो यथा—(मामा. १.२५)
परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी— मभिनवकरिदन्तच्छेदकान्तः कपोलः॥ १६९॥