उत्तमा धीराऽनूढा मध्या यथा—(मामा. २.२)
ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यतः।
मम तु दयितस्तातः श्लाघ्यो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्॥ १७३॥
उत्तमा अधीरोढा मध्या यथा—(कुसं. ८.५)
एवमालि ! निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति।
सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये॥ १७४॥
उत्तमाऽधीराऽनूढा मध्या यथा—(गास ३.७८)
सेअच्छलेण पेच्छह तणुए अंगम्मि से अमाअंतं।
लावण्णं ओसरइ व्व तिवलि—सोवाण—पंतीए॥ १७५॥
(स्वेदच्छलेन प्रेक्षध्वं तनुकेऽङ्गे तस्या अमात्।