मा रइविआसिणी चिअ कमलच्छाआ विसंवअइ॥ १६७॥
(अन्तरयतः समुन्नतययोधरौ प्रियतमाया मुखचन्द्रम्।
मा रविविकासिन्येव कमलच्छाया विसम्वदति॥)
उत्तमा धीरा मध्यमा यथा—(अमरु.)
दुरादुत्सुकमागते विवलितं, संभाषिणि स्फारितं, संश्लिष्यत्यरुणं, गृहीतवसने कोपाञ्चितभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूरेक्षणात् चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि॥ १६८॥
आतङ्कश्रमसाध्वसव्यतिकरोत्कम्पः कथं सह्यताम्॥ १६९॥