कह मा झिज्जउ मज्झो इमाएॅ कंदोट्टदलसरिच्छेहिं।
णअणेहिं जो ण दीसइ घण—थण—हर—रुद्ध—पसरेहिं॥ १७०॥
(कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाभ़्या/?/म्।
नयनाभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥)
उत्तमा अनूढा मध्या यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ १७१॥
निश्च्योतन्ते सुतनु ! कबरीबिन्दवो यावदेते॥ १७२॥