प्रकर्षो यथा—(कुसं. ५.५५)
तदाप्रभृत्युन्मदना पितुर्गहे ललाटिकाचन्दनधूसरालका।
न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि॥ १६४॥
संपर्को यथा—(रत्ना. २.१२)
स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथाऽन्तर्मन्मथोत्थामवस्थाम्।
अतिशयपरितापम्लापिताभ्यां यथाऽस्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥ १६५॥
इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी।
वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १६६॥