अनुबन्धो यथा—(विक्रमो. ४.३३)
तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम्।
यदाविद्धं याति स्खलितमभिसन्धाय बहुशो नदीभावेनेयं ध्रुवमसहना सा परिणता॥ १५८॥
प्रकर्षो यथा—(मामा. ९.२७)
नवेषु लोध्रप्रसवेषु कान्तिर्दृशः कुरङ्गेषु गजेषु यातम्।
लतासु नम्रत्वमिति प्रमथ्य व्यक्तं विभक्ता विपिने प्रियाऽस्मिन्॥ १५९॥
संपर्को यथा—(विक्रमो. ४.३३)
हंस ! प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता।
सम्भावितैकदेशेन देयं यदभियुज्यते॥ १६०॥