आत्मनो वधमाहर्ता क्वासौ विहगतस्करः।
येन तत्प्रथमं स्तेयं गोप्तुरेव गृहे कृतम्॥ १५२॥
अनुबन्धो यथा—(राच. १९.८९)
तेनाथ नाथ दुरुदाहरणातपेन सौम्याऽपि नाम परुषत्वमभिप्रपन्ना।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती वागार्चिषाषस्तपनकान्तशिलेव सीता॥ १५३॥
प्रकर्षो यथा—(वेसं. ३.२४)
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिनाम् अयमहमसृङ्मेदोमांसैः करोमि बलिं दिशाम्॥ १५४॥
सम्पर्को यथा—(मामा. ५.३१)