समानेषु दानमानाद्यमर्षणमीर्ष्या। तस्या
गोत्राद् गोत्रमुपैति या चलतया, या पादमूलात् प्रभो— र्भ्रष्टा, या च पितुर्ममैव कटके दृष्टा वहन्ती ज(ड)लम्।
सेयं सागरिका त्वया पशुपते ! मूर्धानमारोपिते— त्युक्तः कोपकषायपाटलदृशा गौर्या हरः पातु वः॥ १४७॥
कुविआ अ सच्चहामा समे वि वहुआण णवर माणक्खलणे।
पाअडिअ-हिअअ-सारो पेमासंघसरिसो पअट्टर्ह मण्णू॥ १४८॥
(कुपिता च सत्यभामा समेऽपि वधूनां केवलं मानस्खलने।
प्रकटितहृदयसारः प्रेमाशंसासदृशः प्रवर्तते मन्युः॥)
प्रकर्षो यथा—(वेसं. ३.४५)