अयं यावत् पापो न निधनमुपेयादरिशरैः परित्यक्तं तावत् प्रियमपि मयाऽस्त्रं रणमुखे।
बलानां नाथेऽस्मिन् परिकुपितभीमार्जुनभये समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे॥ १४९॥
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसः क्रीडातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः॥ १५०॥
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ १५१॥
दोषतो वाग्दण्डपारुष्यमुग्रता। तस्या