(मुग्धे ! अप्रत्ययन्ती प्रवालाङ्कुरसवर्णलोहितौ।
निर्धौतधातुरागौ कस्मात् स्वहस्तौ पुनर्धावयसि॥)
उत्तमाधीरा मुग्धा यथा—(जाह. १०.५०)
द्वित्राण्यथ रथाद् भूमौ पदान्याधाय निस्सहा।
येयमत्र कियद् दूरमिति पप्रच्छ मैथिली॥ १५९॥
उत्तमा धीरा मुग्धा यथा—(वज्जाल. पृ.३७९)
कइआ गओ पिओ अज्ज पुत्ति ! अज्जेण कइ दिणा होंति ?।
एक्को, एद्दहमेत्तो भणिउं मोहं गआ बाला॥ १६०॥
{कदा गतः प्रियः ? अद्य पुत्रि ! अद्येति कति दिनानि भवन्ति ?।
एकः, एतावन्मात्रे भणिते मोहं गता बाला॥}