नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ॥ १५२॥
उत्तमानूढा यथा—(शाकु. २.१०)
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमपि/मिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ १५३॥
उत्तमा धीरोढा यथा—(चौप. ११)
अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या।
जीवेति मङ्गलविधिं परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या॥ १५४॥
उत्तमा धीरानूढा यथा—(कुसं. ६.१)
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्।