पादन्यासक्वणितशनास्तत्र लीलावधूतैः रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू— नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्॥ १४७॥
रूपाजीवा यथा—(कुट्टनी. ४४)
अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः।
चिकुरभरस्तव सुन्दरि ! कामिजनं किङ्करीकुरुते॥ १४८॥
अथ स्वकीयानामुत्तमादिभेदे व्यतिकरप्रस्तारे त्रिचत्वारिंशच्छतम्। तत्र— स्वकीया उत्तमा यथा—(शाकु. १.१७)
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥ १४९॥
उत्तमा धीरा यथा—(गास. १.८८)