उष्णीषो . . . . . . वक्षसि स्फारहारः काञ्चीगेहे(देशे ?) म(म्र ?) दीयः परिकरवसनं, जानुनोर्योगपट्टः।
डोलालीलासु देव्या सह गगन . . लङ्घने दीर्घरज्जु— र्जीयादे(वं ?) . . विनैकोपकरण . वासुकिः शङ्करस्य॥ १५१॥२
१८. आजीवज्ञानं यथा—(मामा. ३.११)
शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालावबोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु॥ १५२॥
१९. तिर्यग्योनिचिकित्सितं यथा—
यदिह यस्य नियामकमौषधे पवनपित्तकफेषु विषाणिनाम्।
तमिह तेन युतः शमयत्यसावमृततुल्यबलः खलु गुग्गुलुः॥ १५३॥
१. 'सद््वि॰=यद्भिः प्र.'—HOS, जोशेर। सामुद्रिका अत्र ध्यानं दद्युः। चूर्णमिश्रणेन हरिद्रा रक्तायते। एवमिदं पठ्येत— द्वौ वज्रवर्णौ जगतीपतीनां भुवि प्रसिद्धौ न तु सार्वजन्यौ। यत्रोपमानं प्रथमस्य शोणश्चूर्णाहरिद्रारससन्निकाशः॥ १४९॥ २. एवमिवेदं पठ्येत— उष्णीषो मूर्ध्नि सार्धं शिशुशशिकलया वक्षसि स्फारहारः, काञ्चीदेशे म्रदीयः परिकरवसनं जानुनोर्योगपट्टः। दोलालीलासु देव्या सह गगनतलोल्लङ्घने दीर्घरज्जु— र्जीयादेको हि सर्वोपकरणकलनो वासुकिः शङ्करस्य॥ १५१॥
२०. मायाकृतं यथा—(भट्टि. १४.१)